૪ - पञ्चदशीના શ્લોક / સરસ્વતીચંદ્ર - ૧ / ગોવર્ધનરામ ત્રિપાઠી


इच्छा ने परेच्छा च प्रारब्धं त्रिविधं स्मृतम् |
अपथ्यसेविनश्चोरा राजदारस्ता अपि ||
जानन्त इव स्वानर्थमिच्छन्त्यारब्धकर्मतः |
न चात्रैतद्वारयितुमीश्वरेणापि शक्यते ||

यत ईश्वर एवाह गीतायामर्जुनं प्रति |
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ||
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति |
अवश्यंभाविभावनां प्रतीकारो भवेद्यदि ||

तदा दुःखैर्न लिप्येरन् नलरामयुधिष्ठिराः |
अनिच्छापूर्वकं चास्ति प्रारब्धमिते तच्छृणु ॥
अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः ।
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥

स्वभावजेन कौन्तेय विबद्धः स्वेन कर्मणा ।
कर्त्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत्॥
नानिच्छन्तो न चेच्छन्तः परदाक्षिण्यसंयुता: ।
सुखदुःखे भजन्त्येत्त्परेच्छापूर्वकर्म हि ॥ पञ्चदशी.


0 comments


Leave comment